वेदान्तेषु जगत्सृष्टिः तस्याः वैज्ञानिकता च

Main Article Content

डॉ. जानकीशरणः आचार्यः

Abstract

भारतीयज्ञानपरम्परायां जगत्सृष्ट्युत्पत्तिविषये तर्काधारितम् उपनिषत्प्रमाणाधारितं चेति मतद्वयं प्राप्यते। वेदान्तेषु तत्र तावत् श्रुतिरेव परमं प्रमाणम् इति निश्चित्य तदाधारिता जगत्सृष्ट्युत्पत्तिप्रक्रिया निरूपिता अस्ति। एकमेवाद्वितीयं निर्विशेषं चिन्मात्रं ब्रह्म कथं जगत्कारणं भवितुमर्हति, जगत्सृष्टेः क्रमः कः, सृष्टेः प्रयोजनं किम् अस्ति इत्यादीनां बहूनां प्रश्नानां विमर्शः अस्मिन् आलेखे उपनिषत्प्रतिपाद्यसृष्टिप्रक्रियाम् आश्रित्य कृतो वर्तते।


एतेन सह आरम्भवादः, विवर्तवादः, परिणामवादः इत्यादिपक्षाणामपि वेदान्तदृष्ट्या विश्लेषणम् अत्र प्रस्तूयते, येन विभिन्नासु उपनिषत्सु प्रतिपादितस्य सृष्टिप्रकरणस्य तात्पर्यं कुत्र अस्तीति निश्चेतुं शक्यते। उपनिषद्वाक्येषु निरूपितायाः सृष्टेः न केवलम् आध्यात्मिकदृष्ट्या महत्त्वम् अस्ति, किन्तु वैज्ञानिकदृष्ट्या अपि एतस्याः अन्वेषणं कर्तुं शक्यते।


वेदान्तेषु प्रस्तुतः सृष्टिक्रमः, भूतसर्गः, प्राणोत्पत्तिः, इन्द्रियविकासः च अद्यतनविज्ञानस्य मूलतत्त्वैः सह बहुत्र साम्यं वहति। अस्याः मीमांसा वेदान्तस्य च विज्ञानस्य च मध्यमार्गं दर्शयति, यत्र आध्यात्मिकता च विज्ञानं च परस्परं पूरकौ भवतः। अस्मिन् आलेखे वेदान्तसम्मतजगत्सृष्टेः न केवलं दार्शनिकदृष्ट्या, परम् आधुनिकवैज्ञानिकदृष्ट्यापि विश्लेषणस्य प्रयासः विहितः।

Article Details

Section

Articles

Author Biography

डॉ. जानकीशरणः आचार्यः

Dean - Faculty of Darshana & Assistant Professor, 
Shree Somnath Sanskrit University, 
Veraval-362665 Dist. Gir Somnath (Gujarat) 

References

सन्दर्भग्रन्थाः

• श्रीशङ्करभगवत्पादाचार्यविरचितम् ईशाद्युपनिषद्भाष्यम् (खण्डः–१), सम्पादकः – श्री एस्. सुब्रह्मण्यशास्त्री, महेश-अनुसन्धान-संस्थानम्, वाराणसी, १९७९।

• श्रीशङ्करभगवत्पादाचार्यविरचितं छान्दोग्योपनिषद्भाष्यम् (खण्डः–२), सम्पादकः – श्री एस्. सुब्रह्मण्यशास्त्री, महेश-अनुसन्धान-संस्थानम्, वाराणसी, १९८२।

• श्रीशङ्करभगवत्पादाचार्यविरचितं बृहदारण्यकोपनिषद्भाष्यम् (खण्डः–३), सम्पादकः – श्री एस्. सुब्रह्मण्यशास्त्री, महेश-अनुसन्धान-संस्थानम्, वाराणसी, १९८६।

• कौषीतकिब्राह्मणोपनिषत् (शङ्करानन्दकृतदीपिकासहिता), सम्पादकः – ई. बी. कॉवेल्, एशियाटिक सोसायटी, बंगाल, १८६१।

• ब्रह्मसूत्रशाङ्करभाष्यम्, सम्पादकः – अनन्तकृष्णशास्त्री, निर्णयसागरप्रेस्, मुम्बै, १९३८।

• भर्तृहरिविरचितं वाक्यपदीयम्, सम्पादकः – डॉ. शिवशङ्कर अवस्थी, चौखम्बा विद्याभवन, वाराणसी, २०१३।

• सदानन्दविरचितः वेदान्तसारः, सम्पादकः – आचार्य बदरीनाथ शुक्लः, मोतीलाल बनारसीदास, वाराणसी, १९७९।

• धर्मराजाध्वरीन्द्रविरचिता वेदान्तपरिभाषा, सम्पादकः – स्वामी गोविन्दसिंह साधुः, क्षेमराजश्रीकृष्णदास, मुम्बै, १९०१।

• श्रीमद्भगवद्गीता (शाङ्करभाष्याद्येकादशटीकोपेता), सम्पादकः – गजानन साधले, गुजराती प्रिन्टिंग् प्रेस्, मुम्बै, १९३५।